पश्चिम-वङ्ग-राज्ये रामनवमी-पर्वणः अवसरे द्वयोः स्थानयोः हिंसा-घटनाः संवृत्ताः। राज्यस्य मुर्शिदावाद-पुरुलिया-जनपदयोः प्रवृत्तायां शोभायात्रायां केचन असामाजिकतत्त्वानि प्रस्तर-प्रहारं कृतवन्तः, येन तत्र महती अव्यवस्था जाता। मुर्शिदावादमण्डले रघुपतिगञ्जक्षेत्रे यदा भक्तसमूहः गच्छन् आसीत्, तदा अकस्मात् प्रस्तराः क्षिप्ताः। घटनास्थलम् आगत्य आरक्षकदलैः स्थितिः नियन्त्रिता। तत्र त्वरितकार्यबलस्य तथा च केन्द्रीय-बलानां नियुक्तिः कृता अस्ति। आरक्षकविभागाधिकारिणा अजितसिंहयादवमहोदयेन स्पष्टीकृतं यत् अधुना स्थितिः वशवर्तिनी वर्तते तथा च अनेके सन्दिग्धाः कारागारे निरुद्धाः सन्ति।





















