Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरे स्थिते विशाले नरेन्द्रमोदि-क्रीडाङ्गणे भारतेन अन्ताराष्ट्रिय-T20-विश्वचषकस्पर्धाया: (2026) अन्तिम-द्वन्द्वे (Final) न्यूजीलैण्ड-दलं ९६ धावनाङ्कैः (Runs) पराजित्य तृतीयवारं विश्वविजेतुः पदं प्राप्तम्। अनेन विजयेन सह भारतेन सततं द्वितीयवारं विश्वविजेता भवितुं यश: प्राप्तम्। भारतदलेन प्रथमं फलकनम् कृत्वा २० पर्यायेषु (Overs) ५ क्रीडकानां हानिं सोढ्वा २५५ धावनाङ्कानां विशालं लक्ष्यं स्थापितम्। अस्मिन् संजू-सैम्सनद्वारा ८९, ईशान-किशनेन ५४ तथा अभिषेक-शर्मणा ५२ धावनाङ्कानां अर्धशतकानि रचितानि। प्रत्युत्तरे न्यूजीलैण्डदलं १९ पर्यायेषु केवलं १५९ धावनाङ्केषु एव विशीर्णम्। कीवी-दलात् टिम-सीफर्टः अर्धशतकं कृतवान्, कप्तान-सैन्टनरः च ४३ धावनाङ्कान् अर्जितवान्। अहमदाबादस्य अस्मिन् ऐतिहासिक-विजयेन भारतस्य गतकालस्य सर्वेऽपि शोकाः अपगता:।

वर्तमानकाले भारतीयक्रीडाजगति एका नूतना क्रान्तिः दृश्यते। विभिन्नश्रेणीषु आयोजितासु अन्ताराष्ट्रिय-स्पर्धासु भारतीयदलेन स्वकीयं वर्चस्वं प्रस्थापितम्। अस्य विजयप्रवासस्य प्रमुखबिन्दवः अधोलिखिताः सन्ति:

 

क्रमः

श्रेणी (Category)

प्रतियोगिता (Tournament)

वर्षम्

परिणामः (Result)

पुरुषाः (Men)

अन्ताराष्ट्रिय-T20 विश्वचषक:

२०२४

विश्वविजेता

महिलाः (Women)

महिला-क्रिकेट-विश्वचषक:

२०२५

विश्वविजेता

ऊनविंशति-वर्षीयाः (U-19 Girls)

बालिका-T20 विश्वचषक:

२०२५

विश्वविजेता

ऊनविंशति-वर्षीयाः (U-19 Boys)

बालका:-T20 विश्वचषक:

२०२६

विश्वविजेता

दृष्टिबाधिताः महिलाः (Blind Women)

अन्ध-महिला-T20 विश्वचषक:

२०२५

विश्वविजेता

दिव्याङ्गाः (Physically Disabled)

दिव्याङ्ग-विजेतृ-चषकः (Champions Trophy)

२०२५

विश्वविजेता

पुरुषाः (Men)

अन्ताराष्ट्रिय-T20 विश्वचषक:

२०२६

इतिहास-निर्माता (विजेता)

 

अद्यतनवार्ता

भारतम्

विश्वम्