देहल्यां जन्तरमन्तरस्थले प्रवृत्तस्य ‘आरक्षण-निवारण-आन्दोलनस्य’ मध्ये केन्द्रीयमन्त्रिणा चिरागपासवानेन आरक्षणव्यवस्था दृढतया समर्थिता। सः न्यवेदयत् यत् स्थानसंरक्षणं कस्यापि कृपा उपहारो वा नास्ति, अपि तु संविधानेन प्रदत्तः मौलिकः अधिकारः वर्तते। युगेभ्यः याः जातयः सामाजिकतारतम्येन प्रपीडिताः, ताः समाजस्य मुख्यधारायाम् आनेतुं डॉ. आम्बेडकरमहोदयेन इयं व्यवस्था कृता। केषाञ्चित् जनानां याचनया इदं नैव समापयितुं शक्यते। यदि आन्दोलनकारिणः नियमानुसारेण स्वपक्षाः उपस्थापयिष्यन्ति, तर्हि सर्वकारः तैः सह वार्तां कर्तुं सन्नद्धः अस्ति।





















