Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिहारस्य पटनानगरे राष्ट्रिय-जनता-दलस्य (RJD) गोष्ठ्यां लालूप्रसादयादवेन स्वपुत्रः तेजस्वीयादवः दलस्य 'कार्यकारी-अध्यक्षः' नियुक्तः, यस्य अनन्तरं यादव-परिवारे पुनः गृह-कलहः आरब्धः। अस्याः घोषणायाः विरोधे तेजस्विन: अग्रजा रोहिणी-आचार्या 'सोशल-मीडिया' माध्यमेन तीव्रं प्रहारं कृतवती। तया कटाक्षः कृतः यत् "चाटुकाराणां हस्ते 'कठपुतली' (क्रीडनकं) भूताय राजकुमाराय एषा ’ताजपोशी’ शुभा भवतु"। भ्राता तेजप्रताप-यादवः अपि रोहिण्याः समर्थनं कुर्वन् तस्याः कथनं 'शत-प्रतिशतं सत्यम्' इति घोषितवान्। एतेन स्पष्टं भवति यत् तेजस्विन: पदारोहणेन परिवारे गम्भीरः असन्तोषः अस्ति तथा च लालूपरिवारे इदानीं स्पष्टं विभाजनं दृश्यते।

चित्रं - प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्