अस्मिन् क्षणे विश्वे बहु क्षोभः प्रचलति। इदानीं रूसदेशेन तेभ्यः देशेभ्यः प्रत्यक्षतया भर्त्सनं दत्तं ये परमाणुपरीक्षणं कर्तुं चिन्तयन्ति। रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः अवदत् यत्, 'यदि कोऽपि देशः परमाणुपरीक्षणस्य अयोग्यम् अस्थिरताजनकं निर्णयं करोति तर्हि वयं तस्य योग्यं उत्तरं दास्यामः।' सन्देश: अयं अमेरिकादेशाय लक्ष्यीकृत: आसीत्।
सः अवदत् यत्, 'अमेरिकादेशेन परमाणुपरीक्षणार्थं आवश्यकं आधारभूतसंरचनं दीर्घकालं यावत् निर्वाहितम् अस्ति।' अहं बोधयितुम् इच्छामि यत् अमेरिकादेशः एतादृशप्रयोजनार्थं स्वस्य आधारभूतसंरचनाया: निर्माणं कुर्वन् अस्ति। किञ्चित्कालपूर्वं यदा वयं नूतनस्य सामरिकशस्त्रनिवृत्तिसन्धे: निर्णयं कृतवन्तः तदा वयं एतस्य उल्लेखं कृतवन्तः।'





















