Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तमिळनाडुराज्यस्य नूतनसर्वकारे एस. कीर्तना (२९ वर्षीया) युव-मन्त्रिणी अस्ति। सा राजकीयपाठशालायाः छात्रा आसीत् तथा च पञ्च-भाषासु (तमिळ-आङ्गल-हिन्दी-तेलुगु-मलयाळम्) कुशला वर्तते। गणिते (स्टेटेस्टिक्स्) अनुस्नातक-पदवीं प्राप्य सा राजनैतिकव्यूहकाररूपेण कार्यं कृतवती। अधुना शिवकाशीक्षेत्रात् ऐतिहासिकं विजयं प्राप्य सा महिलाविधायिका तथा च मन्त्रिणी भूत्वा राजनैतिकपरिवर्तनस्य प्रतीकं जाता। मन्त्रिमण्डले स्थानं प्राप्य सा लोकचर्चायां केन्द्रीभूता जाता। तया उक्तं यत् टी.वी.के. इत्यत्र सर्वेषां कृते प्रवेश: अस्ति । मम काऽपि राजकीयपृष्ठभूमि: नास्ति तथापि अधुना अहमत्र अस्मि।

अद्यतनवार्ता

भारतम्

विश्वम्