Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सर्वेऽपि विश्वदेशाः अधुना कोरोनाविषाणुना सह युध्यमानाः सन्ति । सर्वेऽपि जनाः यथायोग्यं यथासामर्थ्यं स्वयोगदानं यच्छन्ति । सीमाप्रदेशेषु  सैनिकाः स्वजीवनस्य चिन्तां न कृत्वा, स्वदायित्वं मत्वा युद्धरताः भवन्ति तथैव कोरोना इति युद्धेऽस्मिन् प्रथमपङ्क्त्यां युध्यमानाः सैनिकाः चिकित्सकाः, परिचारकाः, औषधनिर्मातारः विक्रेतारः, स्वच्छताकर्मिणः आरक्षकाः दुग्धशाकविक्रेतार: चापि स्वजीवनस्य स्वपरिवारस्य चिन्तां न कृत्वा कार्यरताः सन्ति । तेषाम् उत्साहवर्धनाय अन्यान् भारतीयान् तेषां निष्ठावबोधनाय च भारतीयसेनाभिः अद्य आकाशात् पुष्पवृष्टिः कृत्वा कृतज्ञता ज्ञापनं कृतम् । उपक्रमः अयं समग्रे भारते भावात्मकतां आनेतुं चेतनां च जनयितुं एकः प्रयासः एव ।

अद्य सेनायाः नैकेभ्यः विमानेभ्यः उदग्रयानेभ्यः च आकाशात् विविधेषु चिकित्सालयेषु संस्थानेषु च पुष्पवृष्टिः कृता । सेनायाः घोषगणैः विविधेषु स्थानेषु सङ्गीतद्वारा अपि तेषाम् अभिवादनं कृतम् ।

दीपप्रज्वालनेन, घण्टानादेन, शङ्खनादेन, पुष्पवृष्ट्या वा कोरोना-विषाणु-अपगमनं न भवत्येव इति तु सत्यं परन्तु एतादृशाः कार्यक्रमाः जनानाम् ऐक्यभावनां वर्धयन्ति योद्धृणां उत्साहवर्धनं च कुर्वन्ति नात्र सन्देहः। एतैः अस्माकं वीरेषु भारतीयतायै मानवतायै मानसिकबलप्रदानं च भवति ।

अद्यतनवार्ता

भारतम्

विश्वम्