गते सप्ताहान्ते अहमदाबादनगरे 'संस्कृत-साहित्य-महोत्सव-२०२५' इत्यस्य चतुर्थी आवृत्तिः सोल्लासं सम्पन्ना । अयं द्विदिवसीयः कार्यक्रमः १३, १४ डिसेम्बर-दिनाङ्कयो: शिवानन्द-आश्रमे आयोजितः आसीत् । अत्र प्राचीनज्ञानस्य आधुनिकशैल्या सह मणिकाञ्चनयोगः दृष्टः।
अस्य कार्यक्रमस्य आयोजनं एकलव्य-संस्कृत-एकेडेमी, संस्कृत-विद्याप्रतिष्ठानं तथा श्रीदिव्य-जीवन-सांस्कृतिक-सङ्घः इत्येतेषां संयुक्त-तत्त्वाधाने संस्कृतसाहित्य-अकादम्या: सहयोगेन अभवत् ।
सत्रस्य आरम्भः स्वामि-अक्षयानन्द-सरस्वती-वर्याणां (महन्त: पीठाधीश्वर: च, जगद्गुरु आश्रम: - जयपुरम्, श्रीसदाशीवसन्यासमठ: - नवदेहली, गङ्गासमदर्शनाश्रम: - उत्तरकाशी) तथा प्रा. सुकान्तकुमार-सेनापति-वर्याणां (कुलपति:, श्रीसोमनाथसंस्कृतविश्वविद्यालय:) व्याख्यानेन अभवत् । डॉ. भाग्येशः झा (अध्यक्षः, गुजरात-साहित्य-अकादमी) 'संस्कृतसाहित्ये आत्मबोधः' इति विषये स्वविचारान् प्रकटितवान् । तदनन्तरं श्रीमान् प्रणव-पटेल-महोदयः 'कौटिल्य-अर्थशास्त्रं' तथा डॉ. ललितकुमार-पटेल-महोदयः 'विदुरनीतिः' इति विषयं अधिकृत्य उद्बोधनं कृतवन्तौ । सायंकाले सुश्री नेहा कृष्णकुमार इत्यनया 'गीतगोविन्दरसास्वादः' कारितः । ततः नृत्यभारती-संस्थया 'गीतगोविन्दम्' इति नृत्यनाटिका प्रस्तुता, यस्याः दिग्दर्शनं कलागुरु-चन्दन-ठाकोर-वर्येण कृतम् ।
द्वितीयदिने डॉ. हर्षदेवः माधवः तथा श्री-धवलकुमारः 'भक्तियोगं' विवृतवन्तौ । न्यायाधीश-आशुतोष-शास्त्रिणः अध्यक्षतायां डॉ. अमी-जोशी 'वेदेषु संवादः' इति विषये चर्चां कृतवती । डॉ. ऊर्मिः सत्यन् दवे 'विवेकचूडामणिः' इति ग्रन्थं विवृतवती । डॉ. अरुण-वर्मा तथा डॉ. दीपेश-कतिरा (आई.आई.टी, खड़गपुर) "विश्वस्तरे गुञ्जिताः संस्कृत-पङ्क्तयः" इति विषये संवादं प्रस्तुतवन्तौ । डॉ. शिवानी शर्मा (भारतीयज्ञानपरम्परा) तथा डॉ. ज्वलन्तकुमारः शास्त्री (वेदानां यथार्थस्वरूपम्) अपि स्वविचारान् स्थापितवन्तौ । एतेन सह लघुबालकानां कृते अपि विशेषक्रीडासत्रस्यायोजनं कृतमासीत्।
अन्ते डॉ. महेशकुमार-पटेल-वर्येण भगवदज्जुकीयम् इति नाटकस्य रसास्वादः कारितः । ततः श्री-राजु-बारोट-महोदयस्य दिग्दर्शने 'तुलसीपत्र-आर्ट-फाउन्डेशन' द्वारा "भगवदज्जुकीयम्" इति प्रहसनं (नाटकं) प्रस्तुतम् ।
अस्मिन् महोत्सवे केवलं व्याख्यानानि न, अपितु शिक्षणस्य नूतन-आयामाः अपि दृष्टाः। 'संस्कृत-वस्तु-प्रदर्शनी' जनानां कृते मुख्याकर्षणम् आसीत्, यत्र दैनन्दिन-वस्तूनां संस्कृतनामानि प्रदर्शितानि। विशेषतः 'ओम् गुरुकुलम्' संस्थया विकसिता 'मोक्षपटम्' (Snake & Ladders) इति क्रीडा आगन्तुकानां मनः मोहयति स्म। एषा क्रीडा मनोरञ्जनेन सह मूल्यानां शिक्षणं ददाति। अपि च, एकेडेमी-संस्थायाः छात्रैः 'संस्कृते विज्ञानम्' (Science in Sanskrit) इति विषये शोधपूर्ण-प्रस्तुतिः कृता, तैः एकल-अभिनयाः (Solo Performances) अपि सोत्साहं प्रदर्शिताः। समग्र-कार्यक्रमस्य मुख्य-संयोजनं एकलव्य-संस्कृत-एकेडेम्याः निदेशकेन डॉ. मिहिर-उपाध्याय-महोदयेन सफलतया कृतम् ।
गते सप्ताहान्ते अहमदाबादनगरे 'संस्कृत-साहित्य-महोत्सव-२०२५' इत्यस्य चतुर्थी आवृत्तिः सोल्लासं सम्पन्ना । अयं द्विदिवसीयः कार्यक्रमः १३, १४ डिसेम्बर-दिनाकयो: शिवानन्द-आश्रमे आयोजितः आसीत् । अत्र प्राचीनज्ञानस्य आधुनिकशैल्या सह मणिकाञ्चनयोगः दृष्टः।