Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चित्रे दृश्यमानः जनः प्रथमदृष्ट्या ओऽपि निर्धनः भासते परन्तु एतेन महापुरुषेण स्वस्य अतिसामान्यजीवनद्वारा सर्वान् आकर्षितवान् अस्ति। चतुःषष्टिवर्षीयः जनः एषः प्रतापचन्द्रसारंगी मोदिमन्त्रिमण्डले राज्यमन्त्रीरूपेण उद्घोषितः । शपथविधौ अपि तस्य नाम्नः उद्घोषणानन्त्तरं सर्वैः करतालेन स्वागतं कृतं तस्य । ओडिशाराज्यस्य ’फकीर’ नेता रुपेण सः सुप्रख्यातः अस्ति। एषः जनः धाराप्रवाहं संस्कृतं वक्तुं  शक्नोति। मूलतः सः समाजसेवकः अस्ति। भाजपादलस्य विधायकरूपेण वारद्वयं सः विजयं प्राप्तवान् अस्ति । सारंगीमहोदयः अतिसामान्यं जीवनं जीवति । सदासर्वदा द्विचक्रिकया एव भ्रमणं, अतिसामान्यवस्त्राणि, निवासः तु सामान्यं कुटीरं, ग्रामपञ्चायतस्य हेंडपम्प-जलेन एव स्नानम्, न मोटरयानं, न संरक्षकाः किं बहुना उक्तेन……

निर्वाचनाय कोटिशः रूप्यकाणाम् आवश्यकता भवति इति चिन्तयतां जनानां कृते अयम् उदाहरणम् अस्ति। सरलता, सततं समाजसेवा, निःस्पृहीत्वं, जनस्नेहः इति कारणैः लोकमुखे तस्य नाम सादरं स्वीक्रियते ।

अद्यतनवार्ता

भारतम्

विश्वम्