Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रिय-स्वयं-सेवक-सङ्घस्य भगिनीसंस्था संस्कृतभारती संसद्-भवने दशदिवसीयसम्भाषणशिबिरस्यायोजनं करिष्यति । तदर्थं संस्कृतभारत्या योजना निर्मिता अस्ति । मूलतः योजनान्तर्गतं सामान्यवसतितः आरभ्य संसद्-भवनपर्यन्तं सम्भाषणशिबिरस्य आयोजनद्वारा जनान्दोलनस्य योजना अस्ति । एतत् सर्वविदितमस्ति यत् एतस्मिन् वर्षे संस्कृतमाध्यमेन संसदि शपथं स्वीकृतवन्तः प्रजाप्रतिनिधयः नैकाः सन्ति । पूर्वकालापेक्षया संस्कृतमाध्यमेन शपथं स्वीकृतवन्तः प्रतिनिधयः साश्चर्यं वर्धिताः सन्ति अपि च आङ्ग्लमाध्यमेन शपथं स्वीकृतवन्तः प्रतिनिधयः न्यूनीभूताः सन्ति ।

संस्कृतभारत्याः अखिलभारतीयसङ्घटनमन्त्री श्रीदिनेशकामतः लोकसभाध्यक्षं ओमबिडालामहोदयं मिलितवान् आसीत् तत्रैव तेन शिबिरस्य प्रस्तावः स्थापितः आसीत्। अध्यक्षवर्येण एतदर्थं आयोजनस्याश्वासनमपि दत्तम्।
२०१४ तमे वर्षे ३४ सांसदा संस्कृतेन शपथं स्वीकृतवन्तः परन्तु २०१९ तमे वर्षे ४७ सांसदाः संस्कृतेन शपथं स्वीकृतवन्तः । शिबिरायोजनस्य विषये संस्कृतभारत्याः देहलीक्षेत्रस्य प्रान्तमन्त्रिणा कौशलकिशोरेणोक्तं यत् शिबिरमिदं प्रतिदिनं घण्टाद्वयं दशदिनानि यावत् चालयिष्यते ।

पूर्वं डॉ.आम्बेडकरेणापि संस्कृतभाषां राष्ट्रभाषारूपेण प्रस्थापयितुं प्रयत्नः कृतः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्