Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आषाढमासस्य प्रथमदिवसे कालिदासस्य स्मरणार्थे समग्रे विश्वे विविधाः कार्यक्रमाः आयोज्यन्ते । कालिदासरचिते मेघदूतम् इति खण्डकाव्ये पङ्क्तिः इयं दृश्यते । गुजरातेऽपि संस्कृतभारत्याः सहयोगेन गुजरातसर्वकारस्य गुजरातसाहित्य-अकादमीद्वारा आषाढस्य प्रथमदिवसे इति संस्कृतोत्सवः समायोजितः । कार्यक्रमोऽयं गुजरातविश्वविद्यालये सम्पन्नः । कार्यक्रमेऽस्मिन् गुजरातराज्यस्य आदरणीयराज्यपाल: दार्शनिकः श्रीओमप्रकाशकोहलीमहोदयः, मन्त्रीश्री-ईश्वरसिंहपटेलः, गुजरातसाहित्य-अकादम्याः अध्यक्षः पद्मश्रीविष्णुभाईपण्ड्या, डॉ.आम्बेडकरमुक्तविश्वविद्यालयस्य कुलपतिपदस्था डॉ.अमी-उपाध्यायः, गुजरातविश्वविद्यालयस्य कुलपतिः डॉ.हिमांशुपण्ड्या, सौराष्ट्रगुर्जरप्रान्तयोः सङ्घटनमन्त्री श्रीहिमाञ्जयपालीवालः, गु.सा.अकादम्याः महामात्रः डॉ.अजयसिंहचौहाणः च उपस्थिताः आसन् । अन्यगणमान्यविद्वत्सु प्रो.राजारामशुक्लः (कुलपतिः, सम्पूर्णानन्दविश्वविद्यालयः), प्रो.श्रेयांशद्विवेदी (कुलपतिः, वाल्मीकिसंस्कृतविश्वविद्यालय:) प्रो. गोपबन्धुमिश्रः (कुलपतिः, श्रीसोमनाथसंस्कृतविश्वविद्यालयः) योगगुरुः आध्यात्मनन्दजी च उपस्थिताः आसन् । कार्यक्रमेऽस्मिन् स्वक्षेत्रे कृतभूरिपरिश्रमाणां विदुषां सम्मानं जातम् । एतस्मिन् वर्षे डॉ.योगिनी व्यासः (साहित्यगौरवपुरस्कारः), डॉ.प्रज्ञाजोशी (वेदशास्त्रपारङ्गतसम्मानः), श्रीकालिदासठाकरः (वेदशास्त्रपारङ्गतसम्मानः), डॉ. नरेन्द्रकुमारपण्ड्या (वेदशास्त्रपारङ्गतसम्मानः), डॉ.किशोरशेलडिया (युवगौरवपुरस्कारः), श्रीप्रणवराज्यगुरुः परिवारश्च (संस्कृतकुटुम्बसम्मानः), डॉ.श्रुतित्रिवेदी (संस्कृतसेवासम्मानः), श्रीबालुभाईठोरिया (पत्राचारद्वारासंस्कृतगौरवसम्मानः) च सम्मानिताः जाताः । सर्वैः महानुभवैः स्वस्योद्बोधने संस्कृतस्य आवश्यकतायाः महत्त्वं प्रतिपादितम्। आ.राज्यपालमहोदयेनापि सांस्कृतिकराष्ट्रवादद्वारा संस्कृतस्य आवश्यकता प्रतिपादिता । कार्यक्रमस्य अग्रिमे चरणे प्रक्षकैः परिपूर्णे सभागारे पण्डितविष्णुदत्तत्रिपाठीद्वारा रचितस्य अनुपमशुक्लद्वारा दिग्दर्शितस्य विद्योतमा इति नाटस्य मञ्चनमपि जातम् ।

अद्यतनवार्ता

भारतम्

विश्वम्