सर्वोच्चन्यायालयः केन्द्रीयमाध्यमिकशिक्षामण्डलस्य (CBSE) नवमकक्षातः आरभ्यमाणां त्रिभाषानीतिं सद्यः रोद्धुं नाङ्गीकृतवान्। मुख्यन्यायाधीशः सूर्यकान्तः न्यायमूर्तिः वी. मोहनः च अस्य वादस्य आगामिविचारणां 'जुलाई' मासस्य चतुर्दशे (१४) दिनाङ्के निश्चितवन्तौ। एतदन्तर्गतं छात्रैः तिस्रः भाषाः पठनीयाः, यासु द्वे भारतीयमूलस्य स्याताम्। दशमकक्षायाः मण्डलपरीक्षायां (Board Exam) तृतीयभाषायाः पृथक् प्रश्नपत्रं न भविष्यति, केवलं विद्यालयस्तरे एव आन्तरिकं मूल्याङ्कनं विधास्यते। अनेन साकं गणित-विज्ञानविषययोः अपि द्विस्तरीया पद्धतिः (Standard & Advanced) अङ्गीकृता। न्यायालयेन स्पष्टीकृतं यत् विषयस्यास्य पूर्वमेव विचारितत्वात् साम्प्रतं कोऽपि स्थगनादेशः न दीयते।





















