सर्वोच्चन्यायालयेन पुटितभक्ष्यपदार्थेषु पुरोभागे एव सावधानता-सूचकचिह्नानाम् अङ्कने विलम्बाद् भारतीय-खाद्यसुरक्षा-प्राधिकरणं परुषाक्षरं निर्भर्त्सितम्। न्यायालयेन सशङ्कं पृष्टं यत् किमिदं प्राधिकरणं वाणिज्य-संस्थानां प्रभावेण कार्यं करोति? शर्करा-लवण-स्नेहबहुल-पदार्थानां सेवेन बालानां प्रजानां च स्वास्थ्यं विनश्यति, अतः पुरोभागे प्रबोधक-चिह्नम् अनिवार्यं भवेत्। यदा प्राधिकारिणः निर्णयस्वीकाराय कालम् अयाचन्त, तदा न्यायाधीशाः उक्तवन्तः—"यदि भवन्तः शीघ्रं निर्णयं न करिष्यन्ति, तर्हि वयमेव यथोचितम् आदेशं दास्यामः।" जनस्वास्थ्यस्य विषये प्रमादः अक्षम्यः।





















