Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सेबी इत्यनेन गौतम अदाणी इत्यस्य नेतृत्वस्य अदाणीसमूहस्य विरुद्धं अमेरिकनशॉर्टसेलर हिण्डन्बर्ग् इत्यनेन कृता: आरोपाः निरस्तीकृताः। सेबी इत्यनेन पृथक् पृथक् आदेशद्वये उक्तं यत् सम्यक् अन्वेषणानन्तरं अन्तःस्थव्यापारस्य, स्टॉक-परिवर्तनस्य, मान्यतानां उल्लङ्घनस्य च आरोपाः निराधाराः इति ज्ञातम्। अतः अदाणीसमूहः दोषी न ज्ञायते, दण्डः अपि न आवश्यकः। हिण्डन्बर्ग् इत्यनेन जनवरी २०२३ तमे वर्षे अदाणीसमूहस्य विरुद्धं स्वस्य प्रतिवेदनेन समग्रविपण्यां उप्तात: सर्जित: आसीत्। तस्य प्रतिवेदने आरोपः आसीत् यत् एडिकोर्प् इन्टरप्राइजेस् प्राइवेट् लिमिटेड्, माइलस्टोन् ट्रेडलिङ्क् प्राइवेट् लिमिटेड्, रेहवेर् इन्फ्रास्ट्रक्चर प्राइवेट् लिमिटेड् इत्येतेषां माध्यमेन धनं अदाणीसमूहस्य सूचीबद्धसमवायेषु अदाणीपावर तथा अदाणी-इन्टरप्राइजेस् लिमिटेड् इत्येतयोः धनं प्रवाहितम् आसीत् अदानी समूहे शेल् कम्पनीद्वारा सम्बन्धितपक्षव्यवहारं गोपयितुं, लेखा अनियमितताया:, स्टॉकपरिवर्तनस्य च आरोपः आसीत्।

सेबी बोर्ड सदस्य कमलेश सी वार्शनी इत्यनेन उक्तं यत् एडिकोर्प्, माइलस्टोन् ट्रेडलिङ्क्स्, रेहवेर् इन्फ्रास्ट्रक्चर इत्येतयोः मध्ये वित्तीयव्यवहारः सेबी इत्यस्य कस्यापि प्रकटीकरणस्य मानदण्डस्य उल्लङ्घनं न करोति। सम्बन्धितपक्षस्य परिभाषायाः प्रावधानाः एतेषु समवायेषु न प्रवर्तन्ते्। तदतिरिक्तं निवेशकान् भ्रमयितुं शक्नुवन्ति इति कोऽपि प्रतिभूतिः अधिगतः वा नियन्त्रितः वा नासीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्