अमेरिकादेशे पुनः एकवारं सर्वकारीय-'शट-डाउन' (Shutdown) स्थितिः उत्पन्ना। सेनेट-सदने वित्तपोषण-विधेयकस्य (Funding Bill) अस्वीकारः जातः, येन पुनः तालाबन्दी घोषिता। राष्ट्रपतिः डोनाल्डट्रम्प् अस्मात् कारणात् चिन्तामग्नः वर्तते, यतः पूर्वं ४३-दिनानां दीर्घं 'शट-डाउन' अभवत्। अस्मिन् पर्याये यद्यपि आंशिकः अवरोधः अस्ति, तथापि लक्षाधिकाः कर्मचारिणः वेतनं विना कार्यं कर्तुं विवशाः भविष्यन्ति। शिक्षण-स्वास्थ्य-रक्षा-विभागानां कार्यं बाधितं भविष्यति तथा च विमान-सेवाः अपि प्रभाविताः भवितुम् अर्हन्ति। अनेन अमेरिकादेशस्य अर्थव्यवस्थायाः कृते गम्भीरं सङ्कटम् उपस्थितम् अस्ति।





















