Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य रात्रौ आकाशे एका मनोहरा खगोलीयघटना दृश्यते। भाद्रपद-पूर्णिमायां पूर्णचन्द्रः स्वकीयेन पूर्णमण्डलेन सह आकाशे शोभते, यः पाश्चात्त्य-परम्परानुसारं सस्यचन्द्रः (Harvest Moon) इति प्रसिद्धः अस्ति। एतेन सहैव मन्दगतिः शनैश्चरोऽपि प्रकाशमान-बिन्दुरूपेण चन्द्रस्य समीपे विराजते। पुरा क्षेत्रेषु धान्यकर्तनाय अस्य चन्द्रस्य प्रकाशः कृषकाणां साहाय्यं करोति स्म, अतः अयं सस्यचन्द्रः इति कथ्यते। भारते रात्रौ नवदशाधिकदशवादने (१०:१९) चन्द्रः सम्पूर्णतया प्रदीप्तः भविष्यति। निर्मले आकाशे विना यन्त्रं नेत्राभ्याम् एव जनाः इदं दृश्यं द्रष्टुं शक्नुवन्ति। अस्यां तिथौ स्नान-दान-पितृतर्पणानाम् अपि महान् महिमा वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्