छात्र-आन्दोलनस्य तदुद्भूतस्य विवादस्य च मध्ये सामाजिककार्यकर्ता सोनम-वाङ्गचुक-महोदयः केन्द्रीयमन्त्रिभ्यां जितेन्द्रसिंह-जे.पी.नड्डा-वर्याभ्यां पत्रं लिखितवान्। पत्रे तेन छात्राणां विविधाः याचनाः विचार्य सद्यः संवेदनशीलः निर्णयः ग्रहीतव्यः इति प्रार्थितम्। वाङ्गचुक-महोदयेन शिक्षाप्रशासनस्य उत्तरदायित्वविषये संसदि चर्चा, आत्महत्यां कृतवतां छात्राणां पीडितपरिवारेभ्यः समुचिता क्षतिपूर्तिः, दिल्लीनगरे शान्तिपूर्णप्रदर्शनकारिणां छात्राणां उपरि प्रवृत्तानां विधि-अभियोगानां प्रत्याहरणं च याचितानि। तेन स्पष्टीकृतं यत् यदि सर्वकारः रात्रौ प्रवृत्तसम्भाषणानुसारं लिखितरूपेण स्पष्टमाश्वासनं ददाति, तर्हि सः स्वस्य अनशनम् समापयिष्यति।





















