Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

परमपूज्यमहन्तस्वामिमहाराजद्वारा लिखित: सत्संगदीक्षाग्रन्थ: सनातनधर्मस्य मौलिकश्रुति-स्मृति-ग्रन्थानां सारं प्रस्तौति अपि च आधुनिकयुगे आवश्यकानां शैक्षिक-सामाजिक-सांस्कृतिक-आध्यात्मिक-मूल्यानां सिञ्चनं च करोति। 

२०२४ तमस्य वर्षस्य दीपावलीकाले बोचासनवासी-अक्षर-पुरुषोत्तम-स्वामिनारायण-संस्थाया: परमपूज्यमहन्तस्वामिमहाराजस्य संकल्पेन प्रेरितानां १०,००० बालकानां कृते अस्य ग्रन्थस्य सम्पूर्णसंस्कृतमुखपाठं कर्तुं लक्ष्यं निर्धारितम् आसीत्। 

परन्तु एतत् नितरां प्रेरणास्पदं यत् एकस्मिन् वर्षे एव गुजरातराज्यस्य अन्यराज्यानां च, न केवलं १०,००० परन्तु १५,६६६ कृतसंकल्पा: बालका: ये तृतीयवर्षत: त्रयोदशवर्षीया: अनुयायिन: सन्ति ते लक्ष्यं अतिक्रान्तवन्तः। तै: सर्वै: सत्संगदीक्षा इति संस्कृतग्रन्थ: कण्ठस्थीकृत:। आधुनिक-डिजिटल-युगे एतादृशम् अभूतपूर्वसिद्ध्यर्थं, एतस्य विशिष्टबालसमूहस्य अभिवादनार्थं अहमदाबादनगरस्य शाहिबागस्थिते स्वामिनारायणमन्दिरे अक्टोबरमासस्य २८ दिनाङ्के मंगलवासरे होमात्मकयज्ञसहित: अभिवादनकार्यक्रम: सुसम्पन्न:। कार्यक्रमेऽस्मिन् शुभ्रवस्त्रधारिण: लक्ष्यसाधका: प्रसन्नवदना: लघुबालभक्ता: ग्रन्थश्लोकै: यज्ञे आहुतिं दत्वा भगवत: स्वामिनारायणस्य कृपाप्रसादं प्राप्तवन्त:। एतेषां उत्कृष्टसिद्धे: प्रसन्ना: समर्पितकार्यकर्तार:, अभिभावका:, साधुगण: च तेभ्य: सर्वेभ्य: बालभक्तेभ्य: अभिनन्दनानि आशीर्वादान् च दत्तवन्त:

अद्यतनवार्ता

भारतम्

विश्वम्