भारतस्य समीपस्थे देशे श्रीलङ्कादेशे दितवाहचक्रवातेन विनाशः अभवत्। अस्य चक्रवातस्य कारणात् दक्षिणभारतस्य केषुचित् राज्येषु प्रचण्डवृष्टिः अत्यन्तं प्रचण्डवृष्टिः वा भवितुं शक्नोति। चक्रवातेन ५६ जनाः मृताः। यदा २० तः अधिकाः जनाः अद्यापि लुप्ता: सन्ति। आगामिषु १२ घण्टेषु अयं चक्रवातः अधिक: प्रबलः भवितुम् अर्हति इति आशङ्का अस्ति।
समग्रे श्रीलङ्कादेशे प्रचण्डवृष्टि: भूकम्पा: च जायन्ते अत: शिक्षनिकसंस्था: पीहिता: सन्ति। मार्गेषु यातायातव्यवस्था प्रभाविता अस्ति । रेलयानानि वायुयानानि अपि स्थगितानि सन्ति। भारतेन ’सागरबन्धु’ अभियानान्तर्गतं आवश्यकसामग्री प्रेषिता अस्ति।





















