Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मध्यपूर्वे प्रचलतः भीषणयुद्धस्य मध्ये ईरानदेशेन एका प्रमुखा घोषणा कृता, या भारताय महते आश्वासाय वर्तते। ईरानस्य 'इस्लामिक रिवोल्युशन गार्ड कोर्पस' (IRGC) इत्यनेन स्पष्टीकृतं यत् 'होर्मुज-अखातः' (Strait of Hormuz) केवलम् अमेरिका-इजरायल-यूरोप-सदृशाणां शत्रुपक्षीय-सहयोगि-देशानां पोतानां (Ships) कृते एव अवरुद्धः अस्ति। मित्रदेशानां कृते एषः सामुद्रिकमार्गः मुक्तः भविष्यति। भारतस्य कृते एषः समाचारः कश्चन वरदानरूपः अस्ति, यतः भारतं प्रतिदिनं प्रायः २६ लक्ष-बैरल-परिमितं मूलतैलम् (Crude Oil) अस्मादेव मार्गात् आयाययति। भारतस्य ऊर्जा-आवश्यकतायाः ५० तः ५५ प्रतिशतं भागः अस्याः एव सङ्कुचित-समुद्रधुनीतः (Strait) गच्छति। यदि एषः मार्गः अवरुद्धः अभविष्यत्, तर्हि भारतस्य अर्थतन्त्रे पेट्रोलियम-इन्धनस्य महती न्यूनता अभविष्यत्। यद्यपि ईरानेन भारतस्य नाम स्पष्टतया न गृहीतं, तथापि प्रतिबन्धित-सूचीतः भारतस्य बहिर्भावः सामरिकदृष्ट्या भारतस्य विजयः एव मन्यते। अनेन निर्णयेन भारतीय-एनर्जी-क्षेत्रे महान् उपशम: जातः।

अद्यतनवार्ता

भारतम्

विश्वम्