सर्वोच्चन्यायालयेन एस.आइ.आर.विषये वादश्रवणकाले महत्त्वपूर्णः प्रश्नः उत्थापितः यत्, केवलम् आधारपत्रस्य आधारेण अनाहूतबाह्येभ्य: नागरिकता दातव्या ? आधारपत्रम् अधिकृतं अस्ति, यत् सर्वकारीयसुविधानां (यथा सब्सिडीयुक्तधान्यादिकम्) कृते विशेषविधे: अन्तर्गतं निर्गतं भवति, परन्तु किं तेनाधारेण मतदाता भवितुं अधिकारं प्राप्तुं शक्यते? सीजेआइ-न्यायाधीशसूर्यकान्तस्य न्यायाधीशस्य जे. बागची चेत्येताभ्यां प्रकरणस्य वादश्रवणं जातम्। एतस्मिन् काले पश्चिमबङ्गराज्यस्य केरलराज्यस्य च पक्षतः वरिष्ठः अधिवक्ता कपिलसिब्बलः उपस्थितः आसीत्।





















