Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतमण्डपे ताइवान-एक्सपो २०२५ इत्यत्र ताइवानस्य ताइवानविदेशव्यापारविकासपरिषदः (TAITRA) अध्यक्षः जेम्स् चिह-फेङ्ग हुआङ्गः आशां प्रकटितवान् यत् भारत-ताइवान-मुक्तव्यापारसन्धिकारणेन भारत-ताइवानयोः व्यापारवर्धनं भविष्यति, भारत-ताइवान-व्यापारव्यवहारा: च सुदृढा: भविष्यन्ति। ताइवानस्य निर्यातनीतेः केन्द्रे भारतम् अस्ति। ताइवानदेशस्य समवाया: भारते व्यापारस्य उद्योगानां च विकासे अधिका रुचिं लप्स्यन्ते, तथैव भारते अधिकं निवेशं कर्तुं आकृष्टाः भविष्यन्ति।

ज्ञातव्यं यत् भारतस्य ताइवानदेशेन सह औपचारिककूटनैतिकसम्बन्धः नास्ति। परन्तु शैक्षणिकव्यापारसम्बन्धाः सन्ति। भारतं बाह्यरूपेण एकचीननीतिम् अनुसरति । अतः ताइवानदेशे तस्य राजदूतः नास्ति, न च भारते ताइवानदेशस्य राजदूतः अस्ति । परन्तु तस्य शैक्षणिकसम्बन्धान् अनुसृत्य राजनीतिशास्त्रस्य प्राध्यापकाः अत्र आगच्छन्ति, भारतात् प्राध्यापकाः ताइवानदेशं गच्छन्ति। एते प्राध्यापकाः राजदूतरूपेण कार्यं कुर्वन्ति। तथैव द्वयोः देशयोः अर्थशास्त्रस्य प्राध्यापकाः उभयदेशेषु स्वतन्त्रकार्यरूपेण कार्यं कुर्वन्ति । ते आर्थिकसम्बन्धेषु दृष्टिपातं कुर्वन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्