Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रराज्यस्य नासिकनगरे चर्चितस्य धर्मपरिवर्तनप्रकरणस्य मुख्याभियुक्ता निदा-खान-नामिका २५ दिनेभ्यः परं आरक्षकैः निरुद्धा। तां छत्त्रपतिसम्भाजीनगरस्य 'नारेगाँव' क्षेत्राद् गृहीत्वा अधुना नासिकनगरं प्रति सा नीता अस्ति।

निदाखान पूर्वं 'प्राक्-प्रत्युभू:' (Anticipatory Bail) प्राप्तुं प्रयतितवती, परं न्यायालयेन सा प्रार्थना अपाकृता । न्यायालयेन उक्तं यत्- "अस्मिन् प्रकरणे पीडितायाः विचार-परिवर्तनस्य (Brainwashing) तथा च तां मलयेशियादेशं प्रति प्रेषणस्य सुव्यवस्थितं षड्यन्त्रं दृश्यते।" आरक्षकैः सूचितं यत् सा पूर्वं टी.सी.एस. संस्थायां कार्यं करोति स्म, तत्रैव सा अन्यासां युवतीनां मति-भ्रमं कृत्वा तासां धर्म-परिवर्तनाय प्रयतमाना आसीत्। अधुना 'न्यायिक-निरोधे' सत्यां तस्याः पाशविककृत्यानां गम्भीररहस्यानि प्रकटितानि भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्