Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दुबईवायुप्रदर्शने भारतीयवायुसेनायाः युद्धविमानं तेजस् दुर्घटनाग्रस्तं जातं येन तस्य विमानचालक: नमांशस्याल: वीरगतिं प्राप्तवान्। अद्य (रविवासरे) तस्य मृतशवः हिमाचलप्रदेशस्य तस्य गृहनगरं काङ्गडानगरं अन्तिमसंस्काराय आनीतः। अस्मिन् समये तस्य परिवारः उपस्थितः आसीत् । वायुसेनायामेव कार्यरता धृतगणवेशा तस्य पत्नी वाहिनीसेनापतिः अफशां तस्मै अन्तिमम् अभिवादनं दत्तवती। ततः सः अश्रुपातमपि कृतवती । एतत् दृश्यं दृष्ट्वा तत्र उपस्थिताः सर्वे भावुकाः अभवन् । तस्य ७ वर्षीया पुत्री अपि तत्रैव आसीत्, सा अपि न जानाति यत् सा पुनः कदापि पितुः अङ्के क्रीडितुं न शक्ष्यति इति। दीवङ्गतस्य नमांशस्य पिता गगनकुमारः निवृतशिक्षकः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्