Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रक्षामन्त्रालयेन गुरुवासरे (२५ सितम्बर्) भारतीयवायुसेनायाः कृते हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् (एचएएल) इत्यनेन ९७ लघुयुद्धविमानानां (एलसीए) मार्क १ ए (तेजास्) युद्धविमानानाम् क्रयणस्य अनुमोदनं कृतम्। केन्द्रसर्वकारेण हिन्दुस्तान एरोनॉटिक्स इत्यनेन सह करं विहाय ६२,३७० कोटिरूप्यकाणां कृते विनिमय: साधित: अस्ति। समाचारानुसारं ९७ तेजस् युद्धविमानेषु ६८ एकसीटरयुद्धविमानानि २९ द्विसीटरप्रशिक्षकयुद्धविमानानि च सन्ति । तेजस मार्क १ ए इत्यस्य प्रदानं २०२७-२८ तमे वर्षे आरप्स्यते, अस्मिन् ६४ प्रतिशताधिकं स्वदेशीयसाधनानि भविष्यन्ति यत् आत्मनिर्भरभारतस्य उपक्रमस्य प्रचारार्थं प्रमुखं सोपानम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्