Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दक्षिण-पूर्व-एशिया-क्षेत्रे थाईलैण्ड-कम्बोज-देशयोः मध्यस्थे सीमा-विवादे पुनः एकवारं गम्भीरः तनावः समुपस्थितः वर्तते। उभयोः देशयोः सीम्नि एकस्मात् विवादित-क्षेत्रात् थाई-देशस्य सेनया आराध्यदेवस्य भगवतः विष्णोः एका प्रतिमा बलात् निष्कासिता, यस्मिन् विषये भारतेन अपि तीव्रा आपत्तिः व्यक्तीकृता अस्ति। इदं प्रकरणं ऐतिहासिकस्य 'प्रेह-विहार'-मन्दिरस्य समीपे घटितम्। इदं मन्दिरक्षेत्रं दीर्घकालात् थाईलैण्ड-कम्बोज-देशयोः मध्ये सीमा-विवादस्य प्रमुखं कारणं वर्तते। प्राथमिक-समाचारेषु प्रतिपादनं कृतमासीत् यत् थाई-सैनिकैः सा प्रतिमा खण्डिता (भग्ना) कृता, येन कम्बोजदेशे तीव्रः असंतोषः उत्पन्नः। किन्तु, पश्चात् थाई-प्रशासनेन स्पष्टीकरणं दत्तं यत् प्रतिमा न खण्डिता, अपितु सीम्नि वर्धमानस्य संघर्षकारणात् सा तस्मात् संवेदनशीलस्थानात् अन्यत्र स्थानान्तरिता अस्ति।

अस्यां घटनायां भारतस्य अपि प्रत्यक्षः सम्बन्धः अस्ति। अवधेयम् अस्ति यत्, इयं विष्णु-प्रतिमा पुरातनी नासीत्, अपितु २०१० तमे ख्रिस्ताब्दे केषाञ्चन भारतीयनागरिकाणां सहयोगेन तत्र स्थापिता आसीत्।

अतः, भारतीय-धार्मिक-भावनाभिः सह सम्बद्धायाः अस्याः प्रतिमायाः निष्कासनेन भारत-सर्वकारः चिन्तितः अस्ति। विदेश-मन्त्रालयेन अस्यां घटनायां चिन्ता प्रकटिता तथा च थाई-देशस्य समक्षं राजनयिकस्तरे स्वस्य विरोधः पञ्जीकृतः।

अद्यतनवार्ता

भारतम्

विश्वम्