Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गोवाप्रदेशे आई.एफ.एफ.आई इति अन्ताराष्ट्रिय-चलचित्रोत्सवे इझरायलदेशस्य चलचित्रनिर्मात्रा नेडेव-लेपीडेन उक्तं -" काश्मीर फाइल्स इति चलचित्रं अश्लीलं दुष्प्रचारयुक्तं च अस्ति। आश्चर्यमिदं यत् एतादृशं चित्रं अत्र प्रदर्शितं भवति।" तस्य निवेदनस्य प्रत्युत्तरे इझरायलदेशस्य राजदूतेन तं तर्जयित्वा कथितम् यत् सः तस्य निवेदननेन लज्जाम् अनुभवति। राजदूतः तस्य निवेदनस्य क्षमाम् अपि प्रार्थितवान्। तस्य निवेदनस्य नैके जनाः विरोधं कृतवन्तः। कार्यक्रमेऽस्मिन् केन्द्रीयमन्त्री अनुरागठाकुरः अन्ये च नेतारः उपस्थिताः आसन्। 

अद्यतनवार्ता

भारतम्

विश्वम्