Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मुख्यमन्त्रिणा अद्य जम्मूकश्मीरप्रकरणे सर्वकारनिर्णयस्य विषये भारतवासिनः सम्बोधिताः । स्वसम्बोधने वृत्त्यर्थं विशेषरूपेणोक्तम् । तेनोक्तं यत् प्रदोशोऽयं प्रवासनोद्योगाय बृहत्तमस्थानं भवितुं क्षमः अस्ति । परन्तु एतदर्थं सर्वेषां भारतीयानां सहकारः अपेक्षते । एकस्मिन् काले बोलीवुड् इत्यस्य चलचित्रनिर्माणाय कश्मीरप्रदेशः उत्तमं स्थानमासीत् । अत्र यदि परिस्थितिः पुनश्च सामान्या भविष्यति तदा पुनः अत्र चलचित्रनिर्माणकारणात् व्यवसायनिर्माणं स्वयमेव भविष्यति । ये जनाः अभियान्त्रिकीक्षेत्रे कुशलाः सन्ति तेभ्यः निवेदयामि यत् स्वनीतौ निर्णयेषु च अस्मिन् प्रदेशे अभियान्त्रिकीविकासाय चिन्तयेयुः । अत्रत्याः युवानः तेजस्विनः उत्साहिनः च सन्ति । तन्त्रज्ञानविकासेन समान-सेवा-केन्द्रैः च अत्रत्यानां युवयुवतीनां जीवनं सरलं भविष्यति । सर्वकारस्य निर्णयः कश्मीरलदाखयोः युवभ्यः सहायकरूपः अस्ति। ये क्रीडाक्षेत्रे अग्रे गन्तुमिच्छन्ति तेषां कृते क्रीडाक्षेत्राणि अपि च वैज्ञानिकपद्धत्या शिक्षणस्य अपि व्यवस्था भविष्यति । कश्मीरयुवानः देशगौरवं वर्धयिष्यन्ते । कश्मीरराङ्कवं अत्रत्यकलाकृतिः सेवफलानि केसरम् इत्येतेषां सम्पूर्णे विश्वे प्रचारस्य आवश्यकता अस्ति । आयुर्वेदिकौषधयः अत्र तत्र सर्वत्र कश्मीरलदाखयोः सन्ति । एतेषां कृते विश्वे क्रयणस्थानानि आवश्यकानि सन्ति । श्रेष्ठप्रवासनकेन्द्रार्थं अयं प्रदेशः सुयोग्यः अस्ति । सौरशक्तिनिर्माणाय लद्दाखप्रदेशः केन्द्रं भवितुं शक्नोति ।

अद्यतनवार्ता

भारतम्

विश्वम्