भारते सम्प्रति ऋतोः मिश्रा स्थितिः वर्तते, यत्र देशस्य मध्य-पश्चिमभागेषु न्यूनवृष्टेः कारणात् जलाशयाः शुष्का:, कर्षकाश्च चिन्तिताः सन्ति। ऋतुविज्ञानविभागसङ्केतानुसारं प्रशान्तमहासागरे विकसिताः नूतनाः ऋतुप्रणाल्यः यदि बङ्गालोपकूले प्रवेक्ष्यन्ति, तर्हि अष्टादशदिनाङ्कात् पञ्चविंशतिदिनाङ्कं (१८-२५ जुलाई) यावत् देशे पुनः सघना वर्षा भवितुं शक्नोति। अपरपक्षे एकस्य पाश्चात्त्यविक्षोभस्य कारणात् पञ्जाब-जम्मू-हिमाचल-हरियाणा-राजस्थानराज्येषु आगामिषु त्रिषु दिनेषु वज्रपातेन सह मेघगर्जनस्य सम्भावना वर्तते। वैज्ञानिकानां मते ‘ला-नीना’ सदृशी स्थितिः अत्र पुनः साहाय्यं विधास्यति, येन शुष्कक्षेत्रेषु धान्यादिनां धान-माष-कणादीनां कृते महत् आश्वासनं भविष्यति।





















