Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य विदेशमन्त्रालयेन त्रिपुराराज्यस्य खोवाईमण्डलस्य विद्याबिलग्रामे त्रयाणां बाङ्गलादेशीयानां मृत्योः विषये वक्तव्यं प्रसारितमस्ति। बाङ्गलादेशः अन्ताराष्ट्रियसीमायाः पवित्रतां निर्वाहयितुम् आग्रहः कृतः।

एम.ई.ए. अनुसारं ते भारतीयसीमाया: अन्त: किलोमिटर्-त्रयम् अन्त: एकस्मिन् ग्रामे गोहरणार्थं आगता: आसन् अपि च ते स्थानीयनागरिकाणाम् उपरि आक्रमणम्पि कृतवन्तः, यस्य परिणामेन एकस्य भारतीयस्य नागरिकस्य मृत्युः अभवत्। तदनन्तरं जाते संघर्षे द्वौ तस्करौ स्थले एव मृतौ, तृतीयः च चिकित्सालये मृतः। भारतेन उक्तं यत् त्रयाणां शवा: बाङ्गलादेशाय समर्पिता: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्