Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिका-ईजरायल-ईरान-देशानां मध्ये प्रचलतः भीषण-सङ्ग्रामस्य मध्ये संयुक्त-अरब-अमीरात (UAE) देशेन भारतं प्रति सुदृढ-मैत्र्याः सन्देशः प्रेषितः। अद्य ईद-पर्वणः अवसरे भारते नियुक्तः UAE देशस्य राजदूतः अब्दुल-नासिर-अलशााली-महोदयः भारत-सर्वकारं प्रति एकं पत्रं लिखितवान्। राजदूतेन उक्तं यत् वर्तमाने रणक्षोभे सत्यापि UAE देशः पूर्णतः सुरक्षितः, स्थिरः च अस्ति। तत्र सामान्यानि कार्याणि प्रचलन्ति। सः UAE देशे निवसतां भारतीयानां कृते विश्वासं दत्तवान् यत् युद्धस्थितौ अपि स्थितिः पूर्णतः नियन्त्रणाधीना अस्ति। तत्र सेवाः, व्यापारः च विना कञ्चन अन्तरायं यथावत् प्रचलन्ति। पत्रे प्रकटीकृतं यत् ईरानेन UAE देशस्य उपरि २००० तः अधिकानि क्षेपणास्त्राणि (Missiles) ड्रोन-यन्त्राणि च प्रयुक्तानि। परं UAE देशस्य रक्षा-प्रणाल्या (Defense System) प्रायः सर्वाणि अस्त्रणि आकाशे एव नष्टानि कृतानि। सङ्कटकालेऽपि देशे विद्युत्, जलम्, आरोग्यम्, खाद्य-सामग्री च विना विच्छेदं लभ्यन्ते। पर्यटनालय-विपणयः तथा वित्तकोषाः अपि सामान्यतया कार्यं कुर्वन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्