महाराष्ट्रराज्ये राजनैतिकसंघर्ष: अविरतं प्रचलति। आगामिबृहन्मुम्बई-महानगरपालिका (BMC) इत्यस्य महत्त्वपूर्ण-निर्वाचनात् पूर्वं, उद्धव-ठाकरे-महोदयस्य शिवसेना तथा च राज-ठाकरे-महोदयस्य 'महाराष्ट्र-नवनिर्माण-सेना' (मनसे) इति दलाभ्यां भारतीय-जनता-पक्षस्य (भाजपा) कृते एका महती सफलता प्राप्ता अस्ति। उभयोः ठाकरे-भ्रात्रोः दलेभ्यः अनेके प्रमुखाः नेतारः, पदाधिकारिणः, कार्यकर्तारः च स्वदलं परित्यज्य भाजपादले विधिवत् सम्मिलिताः। एतेषु केचन पूर्वनगरसेवकाः अपि सन्ति। एतेन भाजपा-दलस्य शक्तिः अधिका वर्धिता इति मन्यते। विशेषतः BMC-निर्वाचने अस्य साक्षात् लाभः भाजपा-दलाय प्राप्तुं शक्यते।





















