केन्द्र-सर्वकारस्य मन्त्रि-मण्डलेन २०२६-तमवर्षस्य फरवरीमासस्य चतुर्विंशतितमे दिनाङ्के केरल-राज्यस्य नाम 'केरलम्' (Keralam) इति परिवर्तयितुं चिरकालप्रतिक्षित: प्रस्तावः अङ्गीकृतः। राज्यविधानसभया अपि २०२३-२०२४ वर्षयोः सर्वानुमत्या सङ्कल्पः पारितः आसीत्। आङ्ग्लानां प्रभावात् मुक्त्यै तथा च मलयाळम्-भाषायाः मौलिकतायै अयं निर्णयः जातः। स्वतन्त्रताकाले अयं प्रदेशः त्रिषु भागेषु विभक्तः आसीत् — मद्रास-प्रान्तस्य 'मलबार', 'कोचीन' तथा च 'त्रावणकोर' इति। लौहपुरुषस्य सरदारवल्लभभाई-पटेलस्य कुशलनीत्या 'त्रावणकोर' राज्यस्य अन्तिमशासकः महाराजा-बलराम-वर्मा भारतसङ्घे विलयनार्थं सम्मतः जातः। ततः १९४९-तमे वर्षे 'त्रावणकोर-कोचीन' इति संयुक्त-राज्यस्य निर्माणम् अभवत्। तदनन्तरं 'ऐक्य-केरल' (एकीकृत-केरल) इति भाषा-आधारित-आन्दोलनस्य फलस्वरूपं १९५६-तमे वर्षे राज्यपुनर्गठननियमानुसारम् आधुनिककेरलराज्यस्य उदयः जातः। 'केरलम्' इति नामपरिवर्तनं वस्तुतः तत्रत्यानां जनानां सांस्कृतिकगौरवस्य, भाषा-अस्मितायाश्च विजयः अस्ति।
चित्रम् : प्रतीकात्मकम् (ए.आइ. निर्मितम्)





















