Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशसर्वकारेण जनस्वास्थ्यस्य सुरक्षायै कृत्रिम-दुग्धविकाराणां निर्माणे विक्रये च पूर्णतया प्रतिषेधः कृतः।  प्राप्तवार्तानुसारेण राज्ये कृत्रिम-घृतस्य, क्षीरसारस्य (पनीर), संयावस्य (खोया) तथा अन्येषां दुग्ध-समानानां पदार्थानां सङ्ग्रहणं विक्रयश्च निषिद्धः। प्रशासनेन स्पष्टीकृतं यत् खाद्य-सुरक्षा-नियमानुसारं दुग्धोत्पादाः केवलं प्राकृत-स्वरूपे एव विक्रयेयुः। राज्यस्य परीक्षणशालासु एतेषु कृत्रिम-पदार्थेषु अखाद्य-रासायनिक-द्रव्याणि तैलादिकं च सम्प्राप्तं, यत् मानवानां स्वास्थ्याय अतीव हानिकरम् अस्ति। अतः नागरिकाणां रक्षार्थम् एषः कठोरः निर्णयः स्वीकृतः।

अद्यतनवार्ता

भारतम्

विश्वम्