Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशे बिहारे च 'अर्नब' इति प्रबलेन वात्याचक्रेण महती विपत्तिः सञ्जाता। उत्तरप्रदेशे प्रचण्डवातैः सह जातेन मुसलाधारेण वर्षणेन अनेकेषु जनपदेषु महद् आप्लवनम् अभवत्। बहुत्र वृक्षाः उन्मूलिताः, गृहाणि च पतितानि। एतासु विपत्सु षष्ट्यधिकाः जनाः कालकवलिताः, सप्तदशाधिकशतं गृहाणि च भग्नानि। अपरत्र बिहारे निरन्तरवर्षया सहस्रशः ग्रामाः द्वीपकल्पाः सञ्जाताः। नेपालदेशस्य उपत्यकाक्षेत्रेषु अतिवृष्ट्या गण्डकी-कौशिकी-प्रभृतयः नद्यः उद्वेलिताः प्रवहन्ति। सर्वकारः विपद्ग्रस्तानां साहाय्याय रक्षणाय च तत्पर: वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्