भारते अङ्कीय-धनविनिमय-व्यवस्थायाः (UPI) दश वर्षाणि पूर्णाणि जातानि। NPCI इति संस्थया २०१६ तमे वर्षे प्रारब्धा इयं व्यवस्था सम्प्रति विश्वे अपि प्रसिद्धा वर्तते। अद्यत्वे भारते प्रतिदिनं षट्षष्टिकोटितोऽधिकवारं धनविनिमयः अनया व्यवस्थया क्रियते। अनेन रोकधनस्य समस्या दूरीभूता। लघुपण्यवीथीभ्यः आरभ्य महाविपणिषु अपि जनाः जङ्गमदूरभाषेण क्षणाभ्यन्तरे एव धनं प्रेषयन्ति। अद्य एकादशदेशेषु अपि अस्याः व्यवस्थायाः प्रयोगः भवति, येन भारतीयस्य अङ्कीय-सामर्थ्यस्य यशः समग्रविश्वे प्रसरति।
चित्रं - प्रतीकात्मकम् (AI Generated)