अमेरिकादेशस्य नूतनः विदेशमन्त्री मार्को-रूबियो भारतयात्रायै सम्प्राप्तः, यत्र तेन प्रधानमन्त्रिणा नरेन्द्रमोदिना सह एकहोरा-परिमितं (१ घण्टा) महत्त्वपूर्णम् उपवेशनं कृतम्। अस्मिन् अवसरे प्रधानमन्त्रिणे आधिकारिकरूपेण अमेरिका-आगमनाय निमन्त्रणम् अपि प्रदत्तम्।
उपवेशने चर्चिता: अंशा: -
१. व्यूहात्मक-चर्चा (Strategic Meet): आगामि-'क्वाड' (Quad) गोष्ठीतः पूर्वम् आयोजितेयं द्विपक्षीय-वार्ता रणनैतिक-दृष्ट्या अतीव महती अस्ति। सभायां सुरक्षा, द्विपक्षीय-व्यापारः, क्रिटिकल-टेक्नोलॉजी (विशिष्ट-तन्त्रज्ञानम्) तथा च हिन्द-प्रशान्त-क्षेत्रे सहयोग-विषये गहनं मन्थनं जातम्।
२. प्रमुख-उपस्थितिः: अस्मिन् उच्च-स्तरीय-उपवेशे भारत-पक्षतः विदेशमन्त्री एस. जयशङ्कर-महोदयः राष्ट्रिय-सुरक्षा-सलाहकारः (NSA) अजित-डोभाल-महोदयः च उपस्थितौ आस्ताम्। प्रधानमन्त्रिणा 'एक्स' (X) इति सामाजिक-माध्यमेन उक्तं यत्— "द्वौ अपि देशौ जगतः कल्याणाय अग्रे अपि मिलित्वा कार्यं करिष्यतः।"





















