अमेरिकाप्रशासनेन तत्र अध्ययनरतेभ्यः भारतीयछात्रेभ्यः एक: गम्भीर: निर्देश: दत्त: अस्ति। दूतावासेन स्पष्टीकृतं यत् ये छात्राः छात्र-वीजा (Student Visa) नियमानाम् उल्लङ्घनं कृत्वा अवैधरूपेण कार्यं कुर्वन्ति, तेषां विरुद्धं कठोरविधानं भविष्यति। एतादृशेषु प्रकरणेषु छात्रान् तत्कालं देशात् निष्कासितुं तथा च भविष्ये प्रवेशे प्रतिबन्धं स्थापयितुं शक्यते। अतः छात्राः सावधानतया नियमानां पालनं कुर्युः।





















