अमेरिकाराजधानी वाशिङ्गटननगरे व्हाइटहाउससमीपे बुधवासरे आक्रमणस्य घटना अभवत्। आक्रमणकर्ता अफगानिस्तानस्य नागरिकः इति वार्ता प्राप्ता अस्ति। अस्यां घटनायां राष्ट्रियरक्षकदलस्य सदस्यद्वयं गम्भीररूपेण आहत: अभवत् । अफगानिस्तानस्य तालिबान्-सर्वकारेण एतेषु आरोपेषु ट्रम्प-सर्वकाराय प्रतिक्रिया दत्ता अस्ति ।
तालिबान्-सर्वकारेण श्वेतभवनस्य समीपे आक्रमणे अफगानिस्तानस्य कापि भूमिकां नकारितम्। अफगानिस्तानस्य तालिबान्-प्रवक्ता जबिउल्लाह मुजाहिदः अवदत् यत्, 'यः संदिग्धः गृहीतः अस्ति सः पाकिस्तानस्य गुप्तचरसंस्थया ISI द्वारा प्रशिक्षितः अस्ति। आक्रमणकर्तुः अफगानिस्तान-देशेन सह कोऽपि सम्बन्धः नास्ति इति वयं पुष्टिं कुर्मः । अन्वेषणानन्तरं ज्ञायते यत् पाकिस्तानस्य गुप्तचरसंस्थया आक्रमणकारिणे प्रशिक्षणं दत्तम्। आक्रमणकारी पाकिस्तानस्य इस्लामाबादमार्गेण अमेरिकादेशं प्राप्तवन्तः।





















