उत्तरप्रदेशस्य विधानसभायां अनुपूरक-बजट-सत्रस्य चर्चायां मुख्यमन्त्री योगी आदित्यनाथः विपक्ष-दलेभ्यः, विशेषतः समाजवादी-पक्षाय, तीक्ष्णं प्रत्युत्तरं दत्तवान्। अस्मिन् अवसरे तेन राज्यस्य सुदृढविधिव्यवस्थायाः तुलनां वैश्विक-स्तरे जायमानैः अशान्तिपूर्ण-घटनाक्रमैः सह कृता।
वैश्विक-अशान्तेः निदर्शनम् सदने सम्बोधयन् मुख्यमन्त्रिणा उक्तम् यत्, "अस्माभिः अवलोकनीयम् यत् साम्प्रतं विश्वे किं प्रचलति। भवन्तः बाङ्ग्लादेशस्य वर्तमान-स्थितिं पश्यन्तु, तथैव गाजा-पट्टी-क्षेत्रे जायमानान् भीषण-संघर्षान् अपि अवलोकयन्तु। तत्र सर्वत्र अस्थिरता अराजकता च दृश्यते।" उत्तरप्रदेशस्य शान्तिपूर्णं वातावरणम् वैश्विक-स्थितेः वैपरीत्यं दर्शयन् योगी आदित्यनाथेन प्रतिपादितम् यत्, "एतादृश्याः वैश्विक-अशान्तेः मध्ये अपि अस्माकम् उत्तरप्रदेशः शान्तिपूर्ण-रीत्या विकासस्य मार्गे निरन्तरम् अग्रेसरः वर्तते।" तेन स्पष्टीकृतम् यत् प्रदेशे सर्वेषां मतावलम्बिनां पर्वाणि उत्सवाः च सौहार्दपूर्णे वातावरणे, विना कञ्चित् विघ्नम्, सम्पन्नाः भवन्ति। राज्ये सुरक्षा-व्यवस्था सुदृढा अस्ति, जनाः च निर्भयाः सन्ति इति तेन दृढतया प्रतिपादितम्। तेन कटाक्षपूर्णनिवेदने उक्तं यत् गाजासंघर्षे विधवाविलापं कुर्वन्त: बाङ्ग्लादेशे हिन्दूनामुपरि जायमानेषु अत्याचारेषु मौना: तिष्ठन्ति। एतद् द्विजिह्वानां विपक्षदलानां तुष्टीकरणस्य मानसिकता एव।





















