काशीहिन्दूविश्वविद्यालयद्वारा ओडिशासाहित्य-अकादमी, कवि-सम्राट्-उपेन्द्रभंज-ओडियाचेयर, वाराणसी उत्कल समाजः चेत्येतेषां सहयोगेन "ओडिया तथा हिन्दी भक्ति साहित्यम्, तुलनात्मक विमर्श:" इति विषये एकदिवसीय संगोष्ठी सफलतया के.एन. उडुपा सभागारे सम्पन्ना। भक्तिसाहित्यस्य विद्वद्भि: विशेषज्ञै: च द्वयो: भाषयो: आध्यात्मिकताया;, काव्यपरम्पराया:, सांस्कृतिकैतिहासस्य च विषये सारगर्भिता: विचारा: प्रस्तुता:। कुलपतिः प्रो.अजितकुमारचतुर्वेदीवर्येण स्वसम्बोधने उक्तं यत् बनारसहिन्दुविश्वविद्यालयः भारतीयभाषाणां, साहित्यस्य, सांस्कृतिकसंवादस्य प्रवर्धनाय सर्वदा प्रतिबद्धः अस्ति, अस्य संगोष्ठ्याः आरम्भार्थं बीएचयू विहाय अन्यत् उत्तमं स्थानं न भवितुम् अर्हति।





















