'हरित-नगरम्' (Green City) इति ख्याते गुजरात-राज्यस्य राजधान्यां गान्धीनगरे देशस्य प्रथमा 'प्रकृति-प्रेम-भागवत-कथा-ज्ञानयज्ञ-महोत्सवः' चलन् अस्ति। अयं महोत्सवः १-फरवरी-दिनाङ्कतः (रविवासरात्) आरभ्य ७-फरवरी-२०२६ पर्यन्तं प्रचलिष्यति। ब्रह्माण्डस्य पञ्चतत्वानां तथा च जीवसृष्टेः जननीरूपायाः 'प्रकृति-मातुः' रक्षणस्य संवर्धनस्य च उदात्त-हेतुना राजधान्यां एकः नूतनः प्रयोगः क्रियमाणः अस्ति। गान्धीनगरे पर्यावरण-जागृतौ रतायाः 'नेचर-फर्स्ट' (Nature First) संस्थायाः तथा च प्रकृति-प्रेमिणां सहयोगेन आयोजिता इयं कथा विना कस्यापि मण्डपस्य (Tent), पूर्णतया प्रकृतेः सान्निध्ये वृक्षाणां छायायां च आयोजिता अस्ति।
अस्य आयोजनस्य मुख्यम् उद्देश्यं भाविजनानां प्राकृतिक-आपदाभ्यः रक्षणं तथा च जनमानसे पर्यावरणं प्रति जागृति-प्रसारणम् अस्ति। कथायाः मुख्य-वक्तृ-रूपेण सुप्रसिद्धा: कथाकारा: पूज्य-भाईश्री-रमेश-ओझा-महोदयाः व्यासपीठात् भागवत-कथायाः अमृतपानं कारयन्ति। देशस्य ईदृशस्य प्रथम-अभिनव-आयोजने १ तः ७ फरवरी पर्यन्तं प्रतिदिनं सायं ३:३० वादनतः ६:३० वादनपर्यन्तं कथा-श्रवणं कर्तुं शक्यते। अस्य स्थलम् अस्ति - सेक्टर्-६ स्थितं प्रकृति-धाम, यत् नरसिंह-मेहता-उद्यानस्य भुवनेश्वर-महादेव-मन्दिरस्य च मध्ये वृक्षाच्छादितं क्षेत्रम् अस्ति।
एतदतिरिच्य, जनेषु पर्यावरण-चेतनां वर्धयितुं 'नेचर-फर्स्ट' द्वारा ६ विभिन्न-स्थानेषु प्रातः १०:३० वादनतः १२:३० वादनपर्यन्तं विशेष-व्याख्यानानां (Lectures) अपि आयोजनं कृतम् अस्ति, यत्र विषय-तज्ज्ञाः मार्गदर्शनं यच्छन्ति। एतेषु व्याख्यानेषु 'वेस्ट-लैण्ड-रिनोवेशन', जैव-विविधता (Biodiversity), भूमि-उत्पादकता, सौर-ऊर्जा (Solar Energy), कार्बन-दक्षता (Carbon Efficiency), समुद्र-विज्ञानं (Oceanology), बायोगैस, जल-संरक्षणं, वन-संवर्धनं च इत्यदीनां विषयाणां समावेशः कृतः अस्ति।
'नेचर-फर्स्ट-ट्रस्ट' इत्यस्य मुख्य-न्यासी (Trustee) श्री-नारणभाई-पटेलः तथा च पूर्व-मन्त्री विधायकः श्री-महेन्द्रभाई-त्रिवेदी च सर्वान् प्रकृति-प्रेमिणः अस्मिन् 'प्रकृति-प्रेम-भागवत-कथा-ज्ञानयज्ञे' भागं ग्रहीतुं भावपूर्णं निमन्त्रणं दत्तवन्तौ।






















