हिमाचलप्रदेशे वर्षेऽस्मिन् जलप्रलय-भूस्खलन-सम्बद्धासु घटनासु ३६६ जनाः मृताः सन्ति। राज्यसर्वकारस्य ₹४ लक्षकोटिरूप्यकाणां सम्पत्तिक्षतिः अभवत्। शिमला-नगरे ११६%, कुल्लु-नगरे च ११३% वर्षा अभवत्, यत् सामान्यतः अधिका अस्ति।
अत्यधिकवर्षाप्रभावकारणात् वर्षमिदं दुर्वहं दु:खदायकं च जातमस्ति। वर्षेऽस्मिन् सामान्यत: अत्यधिकवर्षाकारणात् आभारते जनजीवनं व्यस्तं जातमस्ति।
पञ्जाबस्य सर्वाणि २३ मण्डलानि अद्यापि जलप्लावनेन प्रभावितानि सन्ति । जलवायुविभागानुसारं राज्ये आगामिषु ३ दिवसेषु वर्षा-सचेतना नास्ति, परन्तु लुधियाना-नगरस्य ससराली-जलबन्धस्य भङ्गस्य सम्भावना वर्तते। प्रधानमन्त्री मोदी ९ सितम्बर् दिनाङ्के जलाप्लावप्रभावितक्षेत्रस्य समीक्षा करिष्यति।
उत्तराखण्डस्य उत्तरकाशीमण्डलस्य नौगांवनगरे शनिवासरे सायं मेघविस्फोटः जातः। विपणौ बहुषु गृहेषु च जलं पुरीषं च प्रविष्टम् । मार्गे स्थितानि वाहनानि अपि जलप्रवाहे प्रवाहितानि।
उत्तरप्रदेशस्य मथुरायां यमुनानदी नगरात् १ कि.मी. दूरे प्रसरिता अस्ति। तटे स्थितेषु आश्रमेषु ५ फिट्पर्यन्तं जलमस्ति। वृन्दावनपरिक्रमामार्गः जलनिमग्नः जात:।
गुजरातदेशे विश्वामित्रीनद्याः जलस्तरः वर्धितः अस्ति । समीपस्थेषु क्षेत्रेषु जलप्लावनसदृशी स्थितिः अस्ति । वटोदरनगरे प्रभावितजनानाम् कृते आवश्यकवस्तूनां वितरणं प्रचलति। राज्यस्य प्रायश: सर्वेषु जनपदेषु अत्यधिकवर्षाप्रभाव: दृश्यते अपि च रक्तवर्णीया सचेतना उद्घोषिता अस्ति। निरन्तरं प्रचण्डवृष्ट्या धारोईजलबन्धात् मुक्तजलेन साबरमतीनद्याः प्रकोपः दृश्यते।























