विश्वस्य जलवायुवैज्ञानिकाः पूर्वानुमानं कृतवन्त: यत् अस्मिन् वर्षे अन्तं यावत् ’ला नीना’-इत्यस्य विपरितपरिस्थितिः उद्भवितुं शक्नोति इति । भारतीयवातावरणं प्रभावितं भविष्यति, भारते कटुशीतस्य अनुभवः अपि भवितुम् अर्हति। अमेरिकाराष्ट्रियजलवायुसेवायाः जलवायुपूर्वसूचनाकेन्द्रेण ११ सितम्बर् दिनाङ्के उक्तं यत् २०२५ तमस्य वर्षस्य अक्टोबर्-डिसेम्बर्-मासयोः मध्ये ला नीना-इत्यस्य विकासस्य ७१ प्रतिशतं सम्भावना अस्ति। २०२५ तमस्य वर्षस्य डिसेम्बर्-मासतः २०२६ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं एषा सम्भावना ५४ प्रतिशतं यावत् न्यूनीभवितुं शक्यते। ला नीना प्रशान्तमहासागरस्य विषुववृत्तीयभागे समुद्रपृष्ठस्य तापमानस्य शीतलीकरणस्य स्थितिः अस्ति सम्पूर्णस्य जगतः वातावरणे प्रभावं जनयति। अस्य कारणात् भारते शिशिरस्य ऋतुः शीतलतम: भविष्यति।





















