Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशे पुनरेकवारं वर्षाऋतु-वायुः पूर्णशक्त्या सक्रियः जातः। भारतीय-ऋतुविज्ञान-विभागेन (IMD) देशस्य सप्तविंशति (२७) राज्येषु केन्द्राशासित-प्रदेशेषु च भीषणवर्षायाः वात्याचक्रस्य च तीव्रसङ्केतः प्रख्यापितः। पर्वतीयक्षेत्रेभ्यः आरभ्य समतलभूभागान् यावत् आगामिषु दिनेषु अतिवृष्टेः सम्भावना वर्तते।

दिल्ली-एनसीआर-क्षेत्रम्: मेघैः आच्छादिते आकाशे मन्द-शीतल-वातेन जनाः तापात् मुक्ताः। अत्र लघु-मध्यम-वृष्टेः सम्भावना वर्तते।

उत्तरप्रदेशः बिहारश्च: उत्तरप्रदेशस्य पूर्वभागे २६-२८ जुलाई-दिनाङ्केषु अतिवृष्टिः भविष्यति। बिहारराज्ये अपि २३-२४ जुलाई-दिनाङ्कयोः भीषणवर्षायाः आशङ्का वर्तते।

हिमाचलप्रदेशः: निरन्तरवृष्ट्या काङ्गड़ा-मण्डी-मण्डलयोः ‘ऑरेंज-अलर्ट’ प्रसारितम्। पर्वतीयक्षेत्रेषु भूस्खलनस्य आकस्मिक-आप्लावस्य च महद् भयं वर्तते।

मध्यप्रदेशः राजस्थानं च: मध्यप्रदेशस्य भोपाल-जबलपुरादिषु मण्डलेषु आगामिषु ४८ घण्टासु अतिवृष्टिः भविष्यति। राजस्थानस्य जयपुर-कोटा-उदयपुरादिषु भागेषु २६ जुलाई-दिनाङ्कयावत् मूसलाधारवर्षायाः अनुमानम् अस्ति।

गुजरात-सहितानि अन्यानि राज्यानि: एतदतिरिच्य गुजरात-महाराष्ट्र-उत्तराखण्ड-पंजाब-हरियाणा-असम-मेघालयादिषु राज्येषु अपि मेघगर्जनेन सह वर्षायाः प्रभावः दृश्यते।

अद्यतनवार्ता

भारतम्

विश्वम्