भारतीय-ऋतुविज्ञान-विभागेन (IMD) गुजरात-महाराष्ट्र-दिल्ली-उत्तरप्रदेषादिसहितेषु देशस्य सप्तदशराज्येषु वज्रपात-झञ्झावातेन सह अतिवृष्टेः तीव्रसङ्केतः प्रख्यापितः। ऋतुविज्ञान्यानुसारं वर्तमाने मोन्सून-ट्रफ्, चक्रवातीय-परिसञ्चरणं (Cyclonic circulation) तथा पाश्चात्त्य-विक्षोभः (Western disturbance) इति पञ्च शक्तिशालिन्यः ऋत्वाधारितयप्रणाल्यः युगपत् सक्रियाः सन्ति, येन श्व: अशीतिप्रतिघण्टापरिमितवेगेन चण्डवातः प्रवहिष्यति। विशेषतः महाराष्ट्रस्य मुम्बई-पालघरमण्डलयोः रक्तसङ्केतः अद्यापि प्रवर्तते। सर्वकारेण नागरिकाः कृषकाश्च विना कारणं गृहात् बहिः यात्रां न कर्तुम् उपदिष्टाः, आकाशे विद्युत्स्फुरणसमये च वृक्षाणाम् अधः आश्रयं न ग्रहीतुं निषिद्धाः।





















