भारतीयजलवायुविज्ञानविभागस्य सूचनानुसारं सम्प्रति मकरसङ्क्रान्तिपर्वणः समीपे सम्पूर्णे देशे वातावरणस्य प्रभाव: भिन्नभिन्नरूपेण दृश्यते। यत्र उत्तरभारतं भीषणशीतेन प्रकम्पते, तत्र दक्षिणभारते स्थितिः किञ्चित् विपरीता वर्तते।
उत्तरभारतस्य पर्वतीयक्षेत्रेषु हिमपात: जायमान: अस्ति। सम्पूर्णक्षेत्रे तापमानं शून्यत: न्यूनं जायमानमस्ति। पर्वतेभ्य: आगच्छद्भि: हिमवायुतरङ्गै: समतलक्षेत्रेषु शैत्यप्रकोप: वर्धित: अस्ति। प्रात: रात्रौ च सघननिहार: दृश्यते येन यातायातव्यवस्था बाधिता भवति। मध्यभारते पश्चिमभारते च अपि शनै: शनै: तापमानं न्यूनं जायमानमस्ति। निहारप्रकोप: अपि वर्धमान: अस्ति। पूर्वभारते अपि एतादृशी एव परिस्थिति: अस्ति। दक्षिणभारते मुख्यतया वातावरणं शुष्कं सुखदं च वर्तते। परन्तु समुद्रतटक्षेत्रेषु आगामिकाले केषुचित् स्थानेषु मेघगर्जनै: सह लघुवृष्टि: भवितुमर्हति।





















