Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सूरताग्निप्रकरणेन सर्वेऽपि जनाः शोकसन्तप्ताः कुपिताः दु:खिताः च जाताः ।

पुत्रीतात ! अहम् अनलज्वालमालाग्रस्ता जाता अहं बहिरागन्तुम् असमर्था कृपया मां विस्मरतु

संवादः अयं पितापुत्र्योः ।

सर्वकारेण  शब्दाश्वासनं धनाश्वासनं च दत्ते । सर्वकारीयसंस्थाभिः परस्परं दोषारोपणं कृतम् । व्होट्स-एपसमूहेषु चित्राणाम् आदानप्रदानं जायमानमस्ति, किं च कर्तव्यं इति उपदेशप्रचारः च जायमानः अस्ति । आरक्षिविभागेन द्वित्राणां ग्रहणं कृतम्। अधुना संशोधनसमितिः स्वस्य वृत्तं सप्ताहे दास्यति । जनाः सर्वं विस्मरिष्यन्ति पुनश्च भविष्यत्काले एतादृश्याः घटनायाः पुनरावर्तनम्……. कः बोधपाठः स्वीकृतः अस्माभिः ? केचन प्रश्नाः उद्भवन्ति मनसि, चिन्तनीयमवश्यम्।

जलाप्लवे आगते सति सेतुनिर्माणं न उचितम् परन्तु किं आगामिजलाप्लवस्य वयं प्रतीक्षां कुर्मः ????
१) नियमविरुद्धं भवननिर्माणे सति केवलं ’इम्पेकट् फी’ नाम्ना धनं स्वीकृत्य सर्वं चलति इति सर्वकारीयसंस्थानां नियमः वा?
२) आपद्काले जनरक्षणाय आवश्यकोपकरणानां नियमितं निरीक्षणं किमर्थं न भवति ?

३) यदि तादृशानाम् उपकरणानां व्यवस्था अस्ति तर्हि कति जनाः तस्य उपयोगं जानन्ति ?

४) विद्यालयमहाविद्यालयेषु अन्यशिक्षणसंस्थासु वा एतादृशानाम् उपकरणानां व्यवस्था अस्ति? अस्ति तर्हि किं प्रतिवर्षं तेषां निदर्शनं भवति ? किं छात्राः स्वयं तेषां प्रयोगं कृत्वा पठन्ति ?

५) भारते बहु-अट्टीय-भवनेषु विद्युत-तन्त्र्यः यत्रकुत्रापि सोपानमार्गेषु लम्बिताः दृश्यन्ते । विद्युत्-विभागः तेषां समाधानाय किमर्थं न कुर्वन्ति ?

६)  घटनासमये बहुकालं यावत् शोर्ट्-सर्किट्प्रभावः दृष्टः । किमर्थं विद्युत्-विभागेन विद्युत्-प्रवाहः न स्थगितः ?

७) जनरक्षणं विस्मृत्य यातायात्-व्यवस्थां प्रभावीकुर्वन्तः अपि च चित्राणि स्वीकुर्वन्तः जनाः किं .’ओस्कार” इति पारितोषिकं प्राप्तुं नामाङ्कनं कृतवन्तः ? किमर्थं जनाः वयं परित्राणकार्ये विघ्नरूपाः भवामः ?

८) परित्राणकार्ये विघ्नरूपाणां जनानां कृते भारते कः दण्डः ? आरक्षिविभागस्य किं दायित्वं एतेषां कृते ?

९) अग्निशमनदलः बहुविलम्बेन प्राप्तः । किमर्थं ते दूरवाण्या आह्वानं सामान्यं इति चिन्तयन्ति ?

१०) अग्निशमनदलसदस्याः अग्निं शामयितुं प्रायशः चिरपुरातन-जलोग्रधाराणामेव प्रयोगं कुर्वन्ति । शीघ्रपरिणामकारिणां अग्निशमनरसायाणानां प्रयोगः कदा ?

११) विकासमुखी सर्वकारः एतस्य विभागस्य विकासं कदा करिष्यति ?

१२) यथा विदेशेषु प्रयोगः भवति तथा आधुनिकोपकरणानां प्रयोगः अत्र कदा प्रारप्स्यते ?

१३) एतादृशे काले हेलिकोप्टर इति उदोग्रयानस्य प्रयोगः सफलः भवति । किं भारते एतत् शक्यम् ?

१४) विश्वप्रसिद्धायाः अत्युन्नतायाः सरदारपटेलस्य प्रतिमायाः वयं गौरवमनुभवामः परन्तु केवलं चतुर्थाट्टात् जनान् अधः नेतुं अस्माकं समीपे निःश्रेणिः नास्ति । किं तत् नावश्यकम् ?

१५) उन्नतभवननां स्थानिक-कार्यकारिण्याः किं दायित्वम् ? किं यथासमयं समयान्तरे वा आवश्यकोपकरणानां निरीक्षणं, लिफ्ट इति उन्नयिन्याः संशोधनं, विद्युत्-तन्त्रीणां समीक्षा इत्यादि मूलतः केषां कर्तव्यम् ?

१६) प्रधानतापूर्वकं प्राकृतिक-मानवसर्जित-आपद्-विभागस्य रचना स्थानीयस्तरे आवश्यकी वा ?

१७) चतुर्थे अट्टे क्षणान्तरे एव अग्निः प्राप्तुं न शक्नोति । भवने कार्यरताः शतशः जनाः स्वरक्षणार्थं बहिः पलायिताः परन्तु तेषु कति जनाः चतुर्थे अट्टे पठतां बालकान् वह्निविषये सूचितवन्तः रक्षणार्थं प्रयत्नं वा कृतवन्तः ?

१८) समाजे केवलं धनार्जनम् एव कुर्वत्यः आकाश-बोथरादिन्यः नैकाः संस्थाः सन्ति तत्र अन्धानुकरणं कुर्वन्तः अभिभावकाः छात्राणां रसरूचिं अज्ञात्वा तत्र स्थापयन्ति परन्तु ते तासु संस्थासु आत्मरक्षणप्रकियां किमर्थं न चर्चयन्ति ?

१९) किं विद्यालयीय-अभ्यासक्रमे आत्मरक्षणाय प्राकृतिक-मानवसर्जित-आपद्-निवारणम् इति विषय: न आवश्यक: ?

२०) सर्वकारः इति न भिन्नसंस्था । सर्वकारीयविभागेषु कार्यरताः जनाः समाजस्य अस्माकं कुटुम्बस्य जनाः अस्माकम् एव प्रतिवेशिनः सम्बन्धिनः वा । किं वयं सर्वे निष्ठया अस्माकं नागरिकधर्मं पालयामः ? किं वयं भ्रष्टाचारं कुर्मः कारयामः वा ?

२१) यावत् अस्माकं सम्बन्धिनः मृताः न भविष्यन्ति तावत् वयं जागरुकाः न भविष्यामः ?

२२) देहल्यां यदा निर्भयाकाण्डः जातः तदा स्वयमेव जनजागृतिः उत्पन्ना । देशे सर्वत्र तद्विषये दीपसञ्चलनमपि जातम् तेनैव पॉक्सो नियमस्य दृढीकरणं जातम् । किं एतस्मिन् विषये अपि जनान्दोलनं दीपसञ्चलनं विरोधप्रदर्शनं (सर्वमपि अराजकीयम्) न आवश्यकम् ?

२३) निर्वाचनपरिणामप्रभावः इतोऽपि जनमनस्सु व्याप्तः अस्ति । नूतनसर्वकारनिर्माणं आशु एव भविष्यति तर्हि वयं विषयमेनं न विस्मरेम । निर्वाचनपरिणामदिने यथा उत्साहः जनेषु आसीत् तादृशः परन्तु कोपोत्साहः व्याप्तः भवेत् यावत् सुयोग्यनियमादिनां आरम्भः न भवेत् इति प्रार्थये ।

अद्यतनवार्ता

भारतम्

विश्वम्