ईरानदेशे अद्यत्वे अनेकानि भीषणानि जनान्दोलनानि अभवन्, किन्तु तत्रत्यः सर्वोच्चनेता अयातुल्लाह-अली-खामेनेई महोदयस्य शासनं अद्यापि सुस्थिरं वर्तते। एकं नवीनं विश्लेषणं दर्शयति यत् किमर्थं तत्र सत्ताविरोधिप्रदर्शनानि पुनः पुनः विफलानि जायन्ते !
प्राप्तविवरणानुसारम्, विगतेषु सप्तदश (१७) वर्षेषु ईरानदेशे अनेकवारं सर्वकारस्य नीतीनां विरुद्धं, विशेषतः आर्थिकसंकटं तथा च सामाजिकस्वतन्त्रताम् अधिकृत्य, तीव्राः स्वराः उत्थिताः। 'सत्ता-परिवर्तनस्य' कृते जनानां स्तरे अनेके प्रयासाः कृताः, किन्तु आश्चर्यजनकरूपेण ते सर्वे निष्प्रभाविता: अभवन्। विश्लेषकानां मतेन, अस्य मुख्यं कारणं शासनस्य कठोरं दमनचक्रं वर्तते। यदा कदापि प्रदर्शनं उग्रं रूपं धारयति, तदा सर्वकारेण 'इस्लामिक-रिवोल्यूशनरी-गार्ड-कॉर्प्स' (IRGC) तथा च 'बसीज' (Basij) इत्यादीनां सुरक्षा-बलानां माध्यमेन तत् कठोरतया शान्तं क्रियते। अपरं प्रमुखं कारणम् अस्ति यत् एतेषाम् आन्दोलनानां नेतृत्वं कर्तुं कोऽपि एकः सशक्तः, सर्वमान्यः च विपक्षी-नेता (Opposition Leader) देशे नास्ति। सुस्पष्ट-नेतृत्वस्य अभावे, तथा च भयेन, जनानां शक्तिः विभक्ता भवति, यस्य लाभः शासनेन प्राप्यते।





















