प्रधानमन्त्री नरेन्द्रमोदी कोलकातानगरे द्वादशतम-अन्ताराष्ट्रिययोगदिवसोत्सवे भागं गृह्णन् ‘स्वस्थवृद्धत्वाय योगः’ इति मुख्यविषयं प्रख्यापितवान्। तेन प्रतिपादितं यत् योगस्याभ्यासेन जनः पञ्चाशद्वर्षीय: अपि त्रिंशद्वर्षीययुवकवत् ऊर्जावान् भवितुं शक्नोति। श्रीमद्भगवद्गीतायाः श्लोकमुद्धृत्य तेन भोजन-शयन-कर्मसु सन्तुलनस्य महत्त्वं वर्णितम्। अस्मिन् चत्वारिंशन्निमेषात्मके कार्यक्रमे प्रधानमन्त्रिणा सह पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी अपि योगसाधनां कृतवान्। नरेन्द्रमोदी अवदत् यत् योगः केवलं शारीरिकस्वास्थ्यं न वर्धयति, अपितु वैश्विकशान्तये मानसिकसन्तुलनाय च परमम् औषधम् अस्ति।





















